25 फ़रवरी 2010

कालकूट नाडी

कालकूटांशगे जीवे मतंगे योगजातके,कन्या विक्रय वित्ताप्तिअभगिनीधनवान क्वचित।
जीवे मन्दे कुलीरांशे तुलांशग्रहसंयुते,मलिन्यांशे प्रजातस्स भगिन्याजितवित्तवान।
स्वभुजार्जितवान किंचित्दबाल्ये च स्वपितार्जितम,स्वगोत्रज्ञातिवित्तिर्प्राप्तिभगिनीसहितेन वा।
षटचतुश्च तदर्थं च चतुश्शतमयापि च,दशाधिकधनं नित्यं वृक्षवाणिज्यजीवनम।
कर्मेशशांक ग्रह दशा काले मित्रविनाशनम,भगिनी क्लेश्माप्नोति मात्ररिष्ठं तत: परम।
मालिन्यंशे स्वजीवेशे वार्धके चित्तविभ्रमम,वनानतरे मृतिं चेति दुष्ठजातिमृगेण वा।
ग्रन्थान्तरे मतंगांशे लाभेशे राहुसयुंते,क्रूरषष्ठ्श्यंश्दोषेण मातृदुर्मणं वदेत।
स्वपिता च स्वबाल्येशु स्त्री तुक्लेशमृत्युवान,सन्निपातज्वरे मृत्युर्देशे देशान्तरे मृति:।
मालिन्यंशे पूर्वभागे वयोमध्ये धनाढ्यवान,वार्धके क्लेशदारिद्रयं बाल्ये किंचित्सुखासुख:।
त्रिचत्वारिंशत: पश्चातु क्लेश्नाद्वत्सरत्रयम,प्रत्यग्दाये जन्मदेशे विप्लवेन प्रजापद:।
मण्डलाधिपतौ मृत्युर्देशे राजान्तरं सुखम,षोडशाब्दात परं चेति लोके दुर्भिक्षडाम्बरम।
सूर्यांशगे तत्र्कोणे स्फ़ुटयोगं गते शनौ,मतंगांशे प्रजातस्य पापदेशे नृपावधी।
मतंगांशे नृपारिष्टं भाग्येशांशे तथैव च,तत्सप्तमत्रिकोणेशु राज्याधिपतिनाशनम।
कुजांशके तत्वत्रिकोणे स्फ़ुटयोगं गते शनौ,मालिन्यंशे प्रजातस्य लोके दुर्भिक्षडाम्बरम।
मतंगयोगे जातस्य प्रत्यग्दाये तुलाशनौ,लोके धान्यक्षयादीनि प्रजाक्षोभं विनिर्दिशेत।
व्यये राहु युते मन्दे कालिकांशे शुभेक्षिते,रेखायोगं क्वचितकालं केमद्रुमफ़ले क्वचित।

रेखायोग:

व्यये मन्दे सुखे जीवे अष्टमे चन्द्रजातके,राजयोगं क्वचिच्चोति कर्तारिश्च तथा भवेत।
षटचत्वारिंशत्तद्वर्षे सूर्ययोगं त्रिवत्सरं,दारान्तरे सुखं चेति धनलाभं विनिर्दिशेत।
कतिके मध्ये चन्द्रे मतंगे योगजातके,स्वदशायां महत कष्टं पूर्वार्धे व्याकुलं भवेत।
मतंग योगे जातस्य भार्यारिष्टं विनिर्दिशेत।
क्षिप्रेणोद्वाहमाप्नोति पश्चाच्छन्यन्तरे सुखम,गुरुभक्तिं समारम्य शनिमुक्तौ शुभाधिकम।
प्रत्यगदायो विवाहं स्यादगृहे कल्याणसंभवम,धनलाभं प्रकृर्वीत कूर्मयोगवशात सुखम।
सर्वदा चन्द्रभुक्तौ तु कुजाभुक्तौ च वा यदि,द्वीपान्तरे वा सन्तान प्रत्यग्दाये विशेषत:।
कूर्मयोगे दशा काले अपरार्धे महत सुखम,बहुव्यापार शिक्षा स्वाद्वनलाभं दिने दिने।
लाभेशांशे तत्रिकोणे षष्ठीशांशे त्रिकोणगे,स्फ़ुटयोगं गते मन्दे सहोदरिविनाशनम।
वत्सरे एक पंचांशे अष्टचत्वारिबत्सरे,मालिन्यांशे पूर्वभागे सहोदरिविनाशवान।
कूर्मयोगे प्रजातस्य लग्नाधिपवशात सुखम,दारान्तरे सुखप्राप्तिवार्धकं स्त्रीषु सौख्यवान।
चन्द्रेलग्नाधिपेभौमे दशायां गुरुभुक्तिषु:,अतीव क्लेशकार्याणि अपमृत्युस्तथा क्रम:।
स्वसमान जनारिष्टं स्त्रीप्रजानाशमेव च,तदभावे धनच्छेदं दशान्ते वा विनिर्दिशेत।
मेषलग्ने कुलीरांशे भूसुतस्य दशा सुखं,राहुदाये प्रियं चेति स्वपुत्रोद्वाहसंभ्रमम।
जीवान्तरे त्रिषष्ठयाब्दे मलिन्यंशे स जातक:,अपमृत्युभयप्राप्ति शान्त्या शान्तिं प्रयच्छति।
मतंगंशे तथा योगे कालकूटांशजातके,सप्तसप्ततिमे मृत्युनैंधनेश दशान्तरे।
वृषभादि त्रिमासेषु अथवा मकरेषु च,सोमवारे भवेन्मृत्युरूप:काले न संशय:।
मतंगांशे व्यये पापे दुर्मृतिर्नात्र संशय:,पश्चान्निकृष्ठजन्मश्च वार्धक पुत्रयोगवान।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें