27 फ़रवरी 2010

प्रभा नाडी (अबला)

प्रभा नाडी (अबला)

अबलांशे स्थिरे लग्ने पूर्वभागे प्रजायते,विप्रजन्मा सुखी नित्यं श्यामवर्ण कृशाकृति।
ज्येष्ठभ्रातप्रिय: साधुर्बल्ये क्लेशेन कर्शिता,भगिनी भृतमूलेन देशान्तर सुभाग्यवान।
लग्ने कुजे सुते जीवे अबलांशस्य जातके,पश्चादभ्रातृविहीनश्च जायते मृतिमादिशेत।
भगिनीद्वयवान रागी एक भ्रातृसमन्वित:,पितृसौख्य विहीनश्च मातृ शौख्य विहीनवान।
उत्तरांशे प्रजातस्य पितृ मातृ चिरायुश:.पूर्वभागे ज्येष्थभ्राता दीर्घमायुश्च विन्दन्ति।
कुग्रामे जीवनं चेति सम्पद्वदाये विदेशवान,पश्चिमीनदी प्रान्ते गोकर्णप्रान्त्यदेशके।
बाल्ये संचार माप्नोति दारिद्रेण च कर्शित:,उत्तरांशे प्रजातस्य जन्म देशे सुभाग्यवान।
विपल्वेन विनिर्गत्य पश्चात स्वस्थन्मदिशेतु,मेषांशे वृषभे लग्ने पुण्यक्षेत्रेषु भाग्यवान।
आन्ध्रभ्रुद्वारदेसे तु प्रबल्यं चोत्तरोत्तरम,पूर्वभागे मध्यखण्डे वाल्ये पितृविनाशवान।
जननीदीर्घमायुष्यमबलांशस्य जातके,सम्पद्वदाये पितरिष्टंदेशत्यागं विनिर्देश।
चन्द्रलग्नाष्टमाधीशदशायां पापभुक्तिषु,स्वपितारिष्टमाप्नोति मातरिष्टं विनिर्देश।
अबलांशे गते चन्द्रे कलत्र त्रय योगवान,क्वचित पक्षे त्रिभार्याश्च दारा सौख्यादिविहीनवान।
अबलांशे पूर्वभागे द्वादशे शनिवीक्षिते,विवाह्द्वयमित्याहुर्ज्येष्ठभार्या दारिद्रिणी।
अबलांशे पूर्वभागे सुतेशे राहु संयुते,लाभे मन्दे प्रजातस्य सन्तानप्रतिबन्धवान।
उत्तरांशे महाभोगी ज्येष्ठभार्यापिबन्धवान,उत्तरांशे महाभोगी ज्येष्ठभार्यापि वाथ वा।
काकवन्ध्यापतिशंचैव पूर्वभागे अपुत्रवान,ग्रन्थान्तरे पूर्वभागे अबलांशस्य जातके।
कालान्तरे सुपुत्रादिदरिन्तरफ़लं स्मृतम,लग्नात पंचमगे जीवे पापद्वयनिरीक्षिते।
अबलांशे प्रजातस्य पुरा ब्रह्मा ण्शापवान,तत्पापपरिहार्थ सेतुस्नानं शिवार्चनम।
नागेश्वर प्रसादेन सन्तान प्राप्तिमादिशेत,पलमेकं तदर्धेन सोमवार प्रदोषके।
उपोप्य विधिवत पूजां सायाह्मे दानमाचरेत,अबलांशे पूर्वभागे लाभे सूर्ये प्रजायते।
भानुव्रतादि पुण्येन पुत्रप्राप्ति न संशय:,अष्टमाधिपतौ जीवे पंचमे शनिवीक्षिते।
अबलांशे प्रजातस्य सन्ततिक्षयमादिशेत,नागेश्वर प्रसादेन पूर्वभागस्य जातके।
कालन्तरे अल्पसंतानं वार्धके नात्र संशय:,ज्येष्ठभ्रातृसुताधीशनीचांशे शुभवीक्षिते।
ज्येष्ठभ्राततृसुतारिष्ठं जलगण्डं विनिर्दिशेत,अबलांशे पूर्वभागे भगिनीपुत्रयोगवान।

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें